पारस्करगृह्यसूत्रम्🌹🌹
नम: संस्कृताय
!! पारस्करगृह्यसूत्रम् !!
!! अथ प्रथमकाण्डम् !!
!! अथ प्रथमाकण्डिका !!
अथातो गृह्यस्थालीपाकानां कर्म ।1।1।1 ।।
परिसमुह्योपलिप्योल्लिख्योद्धृत्याभ्युक्ष्याग्निमुपसमाधाय,
दक्षिणतोब्रह्मासनमास्तीर्य प्रणीय परिस्तीर्यार्थवदासाद्य, पवित्रे कृत्वा
प्रोक्षणी: संस्कृत्यार्थवत् प्रोक्ष्य
निरूप्याज्यमधिश्रित्य पर्यग्नि कुर्यात् ।1।1।2. ।।
स्रुवं प्रतप्य
सम्मृज्याऽभ्युक्ष्य पुन: प्रतप्य निदध्यात् ।1।1।3
।।
आज्यमुद्वास्योत्पूयावेक्ष्य प्रोक्षणीश्च
पूर्ववदुपयमनान् कुशानादाय समिऽधोभ्यादाय पर्य्युक्ष्य जुहुयात् ।1।1।4 ।।
एष एव विधिर्यत्र क्वचिद्धोम: ।1।1।5 ।।
इति
प्रथमकाण्डे प्रथमा कण्डिका सम्पन्ना ।।
!!अथ द्वितीयाकण्डिका !!
आवसथ्याधानं दारकाले ।1।2।1 ।।
दायाद्यकाल एकेषाम् ।1।2।2 ।।
वैश्यस्य बहुपशोर्गृहादग्निमाहृत्य
।1।2।3 ।।
चातुष्प्राश्यपचनवत्सर्वम् ।1।2।4 ।।
अरणिप्रदानमेके ।1।2।5 ।।
पञ्चमहायज्ञा इति
श्रुते: ।1।2।6।।
अग्न्याधेयदेवताभ्य: स्थालीपाकᳫश्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति
।1।2।7 ।।
ऊँ त्वन्नोऽअग्ने, सत्वन्नोऽअग्न, इम्मेवरुण, तत्वायामि, येते शतम्,
अयाश्चाग्न, उदुत्तमम्, भवतन्न, इत्यष्टौ ।1।2।8
।।
पुरस्तादेवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो
हुत्वा जुहोति ।1।2।9 ।।
स्विष्टकृते च ।1।2।3 ।।
अयास्यग्नेर्वषट्कृतं
यत्कर्मणात्यरीरिचं देवा गातुविद इति ।1।2।10
।।
बर्हिर्हुत्वा प्राश्नाति ।1।2।11 ।।
ततो ब्राह्मणभोजनम् ।1।2।12 ।।
इति
प्रथमकाण्डे द्वितीयाकण्डिका सम्पन्ना ।।
!!अथ तृतीयाकण्डिका !!
षडर्घ्या भवन्ति - आचार्य
ऋत्विग्वैवाह्यो राजा प्रिय: स्नातक इति ।1।3।1 ।।
प्रतिसंवत्सरानर्हयेयु: ।1।3।2 ।।
यक्ष्यमाणास्तृत्विज: ।1।3।3 ।।
आसनमाहार्याह! - साधुभवानास्तामर्चयिष्यामो
भवन्तमिति ।1।3।4 ।।
आहरन्ति विष्टरं पाद्यं पादार्थमुदकमर्घमाचमनीयं मधुपर्कं
दधिमधुघृतमपिहितं काᳫस्ये काᳫस्येन
।1।3।5 ।।
अन्यस्त्रिस्त्रि: प्राह विष्टरादीनि ।1।3।6 ।।
विष्टरं प्रतिगृह्णाति ।1।3।7 ।।
“वर्ष्मोऽस्मिसमानानामुद्यतामिव सूर्य: । इमन्तमभितिष्ठामि यो मा कश्चाभिदासति
इत्येनमभ्युपविशति ।1।3।8 ।।
पादयोरन्यं विष्टर आसीनाय ।1।3।9 ।।
सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति ।1।3।10 ।।
ब्राह्मणश्चेद्दक्षिणं प्रथमम् ।1।3।11 ।।
विराजो दोहोऽसि विराजो दोहमशीय मयि पाद्यायै विराजो दोह इति
।1।3।12 ।।
अर्घं प्रति गृह्णाति - आप:
स्थ युष्माभि: सर्वान्कामानवाप्नवानि इति।1।3।13 ।।
निनयन्नभिमन्त्रयते - समुद्रं व: प्रहिणोमि
स्वां
योनिमभिगच्छत । अरिष्टा अस्माकंवीरामा परासेचि मत्पयः इति ।1।3।14 ।।
आचामति - आमागन्यशसा सᳮसृज वर्चसा । तं मा
कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम् इति ।1।3।15 ।।
मित्रस्य त्वा इति मधुपर्कं प्रतीक्षते ।1।3।16 ।।
देवस्य त्वेति प्रतिगृह्णाति ।1।3।17 ।।
सव्ये पाणौ कृत्वा दक्षिणस्यानामिकया त्रि: प्रयौति ।‘नम: श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामि’इति ।1।3।18 ।।
अनामिकाङ्गुष्ठेन च त्रिर्निरुक्षयति ।1।3।19 ।।
तस्य त्रि: प्राश्नाति । यन्मधुनो मधव्यं परमᳮ रूपमन्नाद्यम् । तेनाहं मधुनो
मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानी इति ।1।3।20 ।।
मधुमतीभिर्वा प्रत्यृचम् ।1।3।21 ।।
पुत्रायान्तेवासिने वोत्तरत
आसीनायोच्छिष्टं दद्यात् ।1।3।22 ।।
सर्वं वा प्राश्नीयात् ।1।3।23 ।।
प्राग्वासञ्चरे निनयेत् ।1।3।24 ।।
आचम्य प्राणान् सम्मृशति । वाङ्म आस्ये अस्तु, नसोर्मे
प्राणोऽस्तु, अक्षणोर्मे चक्षुरस्तु, कर्णयोर्मे
श्रोत्रमस्तु, बाह्वोर्बलमूर्वोरोजोऽरिष्टानि
मेऽङ्गानि
तनूस्तन्वा मे सहेति ।1।3।25 ।।
आचान्तोदकाय शासमादाय गौरिति त्रि: प्राह ।1।3।26 ।।
प्रत्याह - माता रुद्राणां दुहिता वसूनाᳫस्वसाऽदित्यानाममृतस्य
नाभिः । प्रनुवोचञ्चिकितुषे जनाय मागामनागामदितिं वधिष्ट । मम चामुष्य च पाप्माᳮहनोमीति
यद्यालभेत ।1।3।27 ।।
अथ यद्युत्सिसृक्षेन्मम
चामुष्य च पाप्मा हतᳪ उत्सृजत
तृणान्यत्विति ब्रुयात् ।1।3।28 ।।
न त्वेवामाᳫ सोऽर्घः स्यात् ।1।3।29 ।।
अधियज्ञमधिविवाहं कुरुतेत्येब ब्रूयात् ।1।3।30 ।।
यद्यप्यसकृत् संवत्सरस्य सोमेन यजेत कृतार्घ्या एवैनं
याजयेयुर्न्नाकृतार्घ्या इति श्रुतेः ।1।3।31 ।।
इति
प्रथमकाण्डे तृतीय कण्डिका सम्पन्ना ।।
!! चतुर्थी
कण्डिका !!
चत्वारः पाकयज्ञाः-हुतोऽहुतः प्रहुतः प्राशित इति । पञ्चसु बहिःशालायां विवाहे चूडाकरण
उपनयने केशान्ते सीमन्तोन्नयन इति । उपलिप्त उद्धतावोक्षितेग्निमुपसमाधाय ।
निर्मन्थ्यमेके विवाहे । उदगयन आपूर्यमाणपक्षे पुण्याहे । कुमार्याः पाणिं
गृह्णीयात् । त्रिषु त्रिषु उत्तरादिषु । स्वातौ मृगशिरसि रोहिण्यां वा । तिस्रो
ब्राह्मणस्य वर्णानुपूव्येण । द्वे राजन्यस्य । एका वैश्यस्य । सर्वेषाᳩशूद्रामप्येके मन्त्रवर्जम् ।
अथैनां वासः परिधापयति- जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च
जीव शरदः सुवर्चा रयिं च पुत्राननुसंव्ययस्वायुष्मतीदं परिधत्स्व वास इति ।
अथोत्तरीयम्- या अकृन्तन्नवयं या
अतन्वत । याश्च देवीस्तन्तूनभितो ततन्थ, तास्त्वा देवीर्जरसे संव्ययस्वायुष्मतीदं
परिधत्स्व वास इति । अथैनौ समञ्जयति- समञ्जन्तु विश्वेदेवाः समापो हृदयानिनौ ।
सम्मातरिश्वा सन्धाता समुदेष्ट्री दधातु नौ, इति । पित्राप्रत्तामादाय गृहीत्वा निष्क्रामेति- यदैषि मनसा दूरं दिशोऽनुपवमानो वा ।
हिरण्यपर्णो वैकर्णः स त्वा मन्मनसां करोत्वित्यसौ इति । अथैनौ समीक्षयति- अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः
सुमनाः सुवर्च्चाः । वीरसूर्देवकामा स्योनाशन्नो भव द्विपदे शं चतुष्पदे । सोमः
प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः
। सोमोऽददद्
गॉन्धर्वोऽदददग्नये । रयिं च पुत्राँश्चादादग्निर्मह्यमथो इमाम् । सा नः पूषा
शिवतमामैरय सा न ऊरू उशती विहर । यस्यामुशन्तः प्रहराम शेपं यस्यामु कामा बहवो
निविष्ट्या । इति । ।। इति प्रथमकाण्डे
चतुर्थी कण्डिका सम्पन्ना ।।
!!
पञ्चमी कण्डिका !!
प्रदक्षिणमग्निं पर्याणीयैके । पश्चादग्नेस्तेजनीं कटं वा
दक्षिणपादेन प्रवृत्योपविशति । अन्वारब्ध आधारावाज्यभागौ महाव्याहृतयः
सर्वप्रायश्चितं प्राजापत्यᳩस्विष्टकृच्च ।
एतन्नित्यᳮसर्वत्र । प्राङ्महाव्याहृतिभ्यः
स्विष्टकृदन्यच्चेदाज्याद्धविः। सर्वप्रायश्चित्तं प्राजापत्यान्तरमेतदावापस्थानमं
विवाहे राष्ट्रभृत इच्छञ्जयाभ्यातानाँश्च जानन् येन कर्मणेर्छेदिति वचनात् चित्तञच
चित्तिश्चाकूतं चाकूतिश्च विज्ञातं च विज्ञातिश्च मनश्च शक्वरीश्च दर्शश्च
पौर्णमासं च बृहच्च रथन्तरञच । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः
पृतना जयेषु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इहव्यो बभूव स्वाहेति ।
अग्निर्भूतानामधिपतिः समावत्विन्द्रो ज्येष्ठानां यमः पृथिव्या वायुरन्तरिक्षस्य
सूर्योदिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां वरुणोपाᳪ समुद्रः
स्रोत्यानामन्नᳮसाम्राज्यानामधिपतिस्तन्मावतु सोमऽओषधीनां सविता प्रसवानां
रुदः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां मरुतो गणानामधिपतयस्ते मावन्तु
पितरः पितामहाः परेवरे ततास्ततामहाः इह मावन्त्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां
पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्याᳪस्वाहेति
सर्वत्रानुसजति। अग्निरैतु प्रथमो देवानाᳪ सोऽस्यै प्रजां मुञ्चतु
मृत्युपाशात् । तदयᳮराजा वरुणोऽनुमन्यतां
यथेयᳪस्त्रीपौत्रमघन्नरोदात्स्वाहा ।
उत्तमः
जवाब देंहटाएंUttmm
हटाएंBhut accha
जवाब देंहटाएं